________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटार्क
॥१२३६॥
र्भवति. तेजस्कायस्थो जीवो मृत्वाऽनंतरं तेजस्काये एवोत्पद्यते, तदाऽसंख्यं कालं तेजस्काये तिष्टतीत्यर्थः. जघन्यमंतर्मुहत तिष्टति. ।। १५ ॥ अथ कालस्यांतरं वदति
॥ मूलम् ॥-अणंतकालमुक्कोसं । अंतोमुटुत्तं जहन्नयं । विजढम्मि सए काए । तेउजीवाणमंतरं ॥ १६ ॥ व्याख्या-तेजोजीवानां स्वकीये तेजस्काये त्यक्ते सत्युत्कृष्टमंतरमनंतकालं, तेजस्कायजीवास्तेजस्कायाच्च्युत्वाऽपरस्मिन् काये उत्पद्य पुनस्तेजस्काये उत्कृष्टमनंतकालस्यांतरेणोत्पद्यते, जघन्यमंतरं चेद्भवति तदांतर्मुहूर्तं भवति. नवसमयादारभ्य किचिदूनं घटिकाद्वयमंतर्मुहूर्तमुच्यते.
॥ मृलम् ॥-एएसिं वन्नओ चेव । गंधओ रसफासओ ॥ संठाणादेसओ वावि । विहाणाइ सहस्ससो ॥ १७॥ व्याख्या-एतेषामनिकायजीवानां वर्णतो गंधतो रसतः स्पर्शतः संस्थानादेशतश्चापि सहस्रशो विधानानि भेदा भवंति. ॥१७॥
॥ मूलम् ॥-दुविहा वाउजोवा उ । सुहुमा वायरा तहा ॥ पज्जत्तमपज्जत्ता । एवमेए दुहा पुणो ॥ १८ ॥ व्याख्या-वायुजीवा द्विविधाः सूक्ष्मा बादराः, ते पुनः पर्याप्तापर्याप्तभेदेन द्विधा संति.॥
॥१२३६॥
For Private And Personal Use Only