________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटो
॥१२३३॥
AC-40
नादेशतश्चापि सहस्रशो विधानानि भवंति. सहस्रशः शब्देनासंख्येया अनंताश्च भेदा भवंतीत्युच्यते. | ॥मूलम् ॥-इच्चेए थावरा तिविहा । समासेण वियाहिया ॥ इनो य तसे तिविहे । वुच्छामि अणुपुवसो॥७॥ व्याख्या-इत्यमुना प्रकारेणैते त्रिविधाः स्थावराः पृथ्वीजलवनस्पतिजीवाः, तिष्टंतोत्येवंशोलाः स्थावराः समासेन व्याख्याताः, विस्तरतोऽमो बहभेदाः संति. इतोऽनंतरं त्रिविधांस्त्रसाननुपूर्वशोऽनुक्रमेण वक्ष्यामि. ॥ ७॥
॥मूलम् ॥--तेउ वाऊ य बोधवा । ओराला य तसा तहा ।। इच्चेए तसा तिविहा । तेसिं भेए सुणेह मे ॥ ८॥ व्याख्या-तेजोयोगातेजांस्यग्नयस्तद्वर्तिनो जीवा अपि तथोक्ताः, एवं वायवश्च, तथा ओराला इत्युदारा एकेंद्रियापेक्षया स्थूला दींद्रियादयश्च त्रसाः, इत्येते त्रसास्त्रिविधाः संति. तेषां तेजोवायुद्वींद्रियादीनां च भेदान् मे कथयतो यूयं शृणुतेति. अत्र यद्यपि तेजोवाय्वोश्च स्थावरनामकोंदयेऽपि त्रसनमस्ति, ततस्तेजोवाय्वोर्गतिमत्त्वादुदाराणां च लब्धितोऽपि त्रसत्व
17॥१२३३॥ मस्ति, यतो हि त्रस्यति देशाद्देशांतरं संक्रामंतीति वसा इति व्युत्पत्तिः ॥ ८॥
For Private And Personal Use Only