________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१२२१॥
RECHAKK
त्रपुकं कस्तीरं ९, तानं प्रसिद्धं १०, सीसकं ११, रूप्यं १२, सुवर्ण १३. अयश्च त्रपुकं च तानं च सीसकं च रूप्यं च सुवर्ण चायस्त्रपुकताम्रसीसकरूप्यसुवर्णानि, एतेऽपि पृथ्वीभेदा इत्यर्थः. च पुनर्वजं होरकं १४ इति चतुर्दश भेदाः. ॥ ७४॥ हरितालः १५, हिंगुलः १६, मनःशिला १७ प्रसिद्धा. सीसको धातुविशेषो जसद इति लोके १८, अंजनं सुरमकं १९, प्रवालं विद्रुमं २०, अभ्रपटलं भोडल इति प्रसिद्धः २१, अभ्रवालुका अभ्रपटलमिश्रा वालुकाऽभ्रवालुका २२, बादरकाये बादरपृथ्वीकायेऽमी भेदा उक्ताः. अथ मण्यभिधानापि पृथ्व्यस्ति, तस्मान्मण्यभिधानानि मणीनां नामान्युच्यते, मणिभेदा अपि पृथ्वीभेदा एवेत्यर्थः ॥ ७५॥ कानि कानि मणिनामानि? गोमयको गोमेधमणिः २३, है च पुना रुचको रुचकनामा मणिः २४, अंकरत्नं २५, स्फटिकरत्नं २६, लोहिताख्यो मणिः २७, मर| कतमणिः २८, मसारगल्लश्च २९, भुजगमोचको मणिः ३०, च पुनरिंद्रनीलरत्नं ३१, चंदनः ३२,
गैरिकनामा मणिः ३३, हंसगर्भः ३४, पुलकः ३५, पुनः सौगंधिको मणिर्बोधव्यः ३६, चंद्रप्रभः ३७, वैड़यों मणिः ३८, जलकांतो मणिः ३९, सूर्यकांतो मणिः ४०. अत्रैतासु गाथासु खरपृथिव्याः
व-ACCURACTOR A
॥१२२१॥
For Private And Personal Use Only