________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥१२२२॥
SACROCHIRACLEARCH
षत्रिंशद्भेदा उक्ताः, गणनायां तु चत्वारिंशद्भेदाः संजातास्तत्कथं ? तत्रोत्तरं-अत्र हि रत्नानां | केचिद्भेदाः केषुचिद्रत्नभेदेष्वंतर्भवंति, तस्मान्नात्र कश्चिद्वीतरागवचनेषु दोषावकाशः. ॥ ७७॥
॥ मूलम् ॥-एए खरपुढवीए। भेया छत्तीसमाहिया॥ एगविहमनाणत्ता। सुहमा तत्थ वियाहिया ॥ ७८ ॥ व्याख्या-एते खरपृथिव्या भेदाः षट्त्रिंशत्समाख्यातास्तीर्थकरैरुक्ताः, पृथ्वीभेदा. त्पृथ्वीस्था जीवा अपि भिन्ना भिन्नाः, तत्र सूक्ष्मबादरपृथ्वीजीवेषु सूक्ष्मपृथ्वीजोवा एकविधा अना४|नावास्तीर्थकरैर्व्याख्याताः. न विद्यते नानात्वं येषां तेऽनानात्वा अवहभेदा उक्ता इत्यर्थः, पूर्व सूक्ष्मबादरौ मुख्यभेदो द्वौ पृथ्वीकायजीवानामुक्ती. एते हि सूक्ष्माणां बादराणामांतरभेदा उक्ताः, मुख्य वृत्त्या त्वेक एवं सूक्ष्मो बादरो वैक एव भेदोऽस्ति, नानात्वं नास्तीत्यर्थः ॥ ७८॥
॥ मूलम् ॥-सुहमा सबलोयंमि । लोयदेसे य बायरा ॥ इत्तो कालविभागं तु। तेसिं तुच्छं चउबिहं ॥ ७९ ॥ व्याख्या-अथ तान् पृथ्वोजीवान् क्षेत्रत आह-सूक्ष्मा ये पृथ्वीकायजीवास्ते सर्वस्मिंश्चतुर्दशरज्ज्वात्मके लोके संत्यभिव्याप्य स्थिताः संति. बादराः पृथ्वीकायजीवा लोकदेशे
AKAROKarANANCIA
॥१२२२॥
For Private And Personal Use Only