________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१२१९॥
पर्याप्तिभिश्चतमृभिः शक्तिभिर्युक्ताः पर्याप्ताः, तथा तेभ्यो विपरीता अपर्याप्ताः. सूक्षमाः पृथ्वोजीवाः पर्याप्ता अपर्याप्ताः, बादराः पृथ्वीजीवाः पर्याप्ता अपर्याप्ताः, एवं द्विविधाः ॥ ७१ ॥
॥ मूलम् ॥-बायरा जे उ पज्जत्ता । दुविहा ते वियाहिया ॥ सण्हा खरा य बोधवा । सहा सत्तविहा तहिं ॥ ७२ ॥ व्याख्या-तत्र पुनरेषामुत्तरभेदानाह-ये बादराः पृथ्वीजीवाः पर्याप्ता उक्तास्ते द्विविधा व्याख्याताः. एके बादराः पृथ्वीजीवाः पर्याप्ताः श्लक्ष्णाश्चूर्णरूपाः, च पुनरेके बादराः | पृथ्वीजीवाः पर्याप्ताः खराः कठिनाश्च बोधव्याः, तत्र श्लक्षणखरयोः पृथ्वीजीवयोर्मध्ये श्लक्षणाः पृथ्वीजीवाः सप्तविधा ज्ञातव्याः. ॥ ७२ ॥ सप्तविधत्वमेवाह
॥मूलम् ॥—किण्हा नोला य रुहिरा य । हालिदा सुकिला तहा ॥ पंडुपणगमदिया। खरा छत्तीसईविहा ॥ ७३ ॥ व्याख्या-कृष्णाः श्यामवर्णाः, नीला नीलवर्णाः, रुधिरा रक्तवर्णाः, हारिद्राः पीतवर्णाः, शुक्ला धवलवर्णाः, तथा 'पंडुत्ति' पांडुवर्णा ईषच्छुभ्रा इत्यर्थः. इत्थं वर्णभेदेन षड्विधत्वमुक्तं. इह च पांडुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदांतरसंभवसूचकं. सप्तमो भेदस्तु पन
ACAMAKAREEN
॥१२१९॥
For Private And Personal Use Only