________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥१२१६॥
www.kobatirth.org
॥ मूलम् ॥ - एगतेण य साईया । अपज्जवसियावि य ॥ पुहुत्तेण अणाईया । अपज्जवसियावि य ।। ६६ ॥ व्याख्या—ते सिद्धा एकत्वेनैकस्य कस्यचिन्नामग्रहणापेक्षया सादिकाः, अमुको मुनिस्तदा सिद्ध इत्यादिसहिताः सिद्धा भवंति च पुनस्ते सिद्धा अपर्यवसिता अंतरहिताः, मोक्षगमनादनंतरमंत्रागमनाऽभावादंतरहिताः, ते सिद्धाः पृथक्त्वेन बहुत्वेन सामस्त्यपेक्षयाऽनादयोऽनंताश्च. ॥ ६६ ॥ पुनस्तेषामेव स्वरूपमाह -
॥ मूलम् ॥ अरूविणो जीवघणा । नाणदंसणसन्निया ॥ अउलं सुहं संपत्ता । उवमा जस्स नत्थि उ ॥ ६७ ॥ व्याख्या - ते सिद्धा अरूपिणो वर्तते, रूपरहितत्वेन रसगंधस्पर्शानामप्यभावः, लेश्यारहिता अपि पुनः कीदृशाः सिद्धाः ? जीवघनाः, जीवाश्च ते घनाश्च जीवघनाः, जीवाः सच्चिदुपयोगयुक्ताः, घना अंतररहितत्वेन जीवप्रदेशमयाः, पुनः कीदृशाः ? ज्ञानदर्शनसंज्ञिताः, केवलज्ञानकेवलदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगवंत इत्यर्थः यतः - कर्मक्लेशविमोक्षाच्च मोक्षे सुखमनुत्तरं ॥ ६७ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१२१६ ॥