________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shei Kailassagarsuri Gyarmandie
सटोक
॥१२१४॥
पत्रं मक्षिकापिच्छं, तस्मान्मक्षिकापत्रादपि तनुतराऽतिसूक्ष्मेत्यर्थः ॥ ६० ॥ पुनः कीदृशी सा पृथ्वी? | अर्जुनसुवर्णमयी श्वेतकांचनवरूपा, पुनः सा पृथ्वी खभावेन निर्मला. पुनःसा कीदृशी ? उत्तानकमूर्ध्वमुखं यच्छत्रकं तद्वत्संस्थितं संस्थानं यस्याः सोत्तानच्छत्रकसंस्थिता, सा जिनवरैर्व्याख्याता भणिता. पूर्व सामान्येन छत्रसंस्थितेत्युक्त्वेह तृत्तानच्छत्रसंस्थितेत्युक्तं, तद्विशेषत इति न पुनरुक्तिदोषः. अथवान्यकर्तृकेयं गाथा.॥६१॥ पुनः सा पृथ्वी शंखांककुंदसंकाशा, शंखांककुंदानि प्रतीतानि, तत्संकाशा वर्णतस्ततुल्या, अत एव पांडुरा धवला निर्मला निःकलंका शुभा भव्या सा पृथ्वी सीताभिधा वर्तते. सीतेत्यपरं नाम, तस्याः सीताभिधायाः पृथिव्या उपरीत्यनेन सिद्धशिलाया उपरिष्टादेकं 8 योजनं लोकांतस्तु व्याख्यातः. ॥६२॥ इति सिद्धशिलास्वरूपमुक्त्वा तत्र सिद्धाः क्व तिष्टंतीत्याह
॥ मूलम् ॥-जोयणस्स उ जो तत्थ । कोसो उवरिमो भवे ॥ तस्स कोसस्स छप्भाए। | सिद्धाणोगाहणा भवे ॥ ६३ ॥ व्याख्या-योजनस्य तत्रोपरिम उपरिवर्ती यः क्रोशो भवेत्तस्य क्रोशस्य षष्टे भागे, इत्यनेन सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रितयरूपे (३३३) धनुः परिमाणे
SACROCOCORCHIKCANORAK
॥१२१४॥
For Private And Personal Use Only