________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥१२१३॥
षत्प्राग्भारानाम्नी वर्णयति-सर्वार्थसिद्धस्य नाम्नो विमानस्योपरि द्वादशभियोजनैरीषत्प्रारभारानाम्नी पृथ्वो भवेत्. कीदृशी सा भूमिः? छत्रसंस्थिता, छत्रमातपत्रं, तस्य संस्थितं संस्थानमाकृतिर्यस्याः सा छत्रसंस्थिता. इह सामान्योक्तावपि छत्रमुत्तानमेव ज्ञेयं. ॥ ५८ ॥ सेषत्प्राग्भारा पृथ्वो कीडशो वर्तते? तत्स्वरूपमाह-सेषत्प्राग्भारा योजनानां पंचचत्वारिंशच्छतसहस्राण्यायता दोर्या वर्तते, पंचचत्वा. रिंशल्लक्षयोजनदीर्घास्तीत्यर्थः. च पुनस्तावंतिकं तावत्प्रमाणमेव विस्तीर्णा वर्तते, विस्तारेणापि पंचचत्वारिंशल्लक्षयोजनप्रमाणेति भावः. तथा तस्या ईषत्प्राग्भाराया इति शेषः, 'परिरओ' इति परिधिस्त्रिगुणः साधिको ज्ञेयः. तदैककोटिद्विचत्वारिंशल्लक्षत्रिंशत्सहस्रद्विशतकोनपंचाशयोजनानि किंचिदधिकानि, एतावांस्तस्याः सर्वः परिधिर्भवति.॥ ५९ ॥ पुनः कथंभूता सा? अष्टयोजनबाहल्या, अष्ट योजनानि बोहल्यं यस्यां साष्टयोजनबाहल्या, सेषत्प्राग्भारा मध्यप्रदेशे इयत्प्रमाणस्थौल्यवती जिनैाख्याता. चरिमांतेषु सर्वदिग्वर्तिषु पर्यंतप्रदेशेषु परिहीयमाना ( हानिश्चात्र विशेषाऽनभिधानेऽपि प्रतियोजनमंगुलपृथक्त्वं दृष्टव्या.) परिसमंतात हायंतीति क्षीयमाना पत्तलाभवंती,मक्षिकायाः
॥१२१३॥
For Private And Personal Use Only