________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
उत्तरा- 8 मोहनीयोदयादर्शनपरीषहः स्यात्. ज्ञानावरणीयोदये प्रज्ञापरीषहः स्यात्, तस्यैवोदयेऽज्ञानपरीषहोऽपि
स्यात्, अंतरायकर्मोदयेऽलाभपरीषहः स्यात्, चारित्रमोहनीयकर्मोदये आक्रोश १ अरति २ स्त्री नैपे॥११०॥
धिकी ४ अचेल ५याचना ६ सत्कराः ७. एते सप्तपरीषहा उत्पद्यते, शेषा एकादश वेदनीयकमोदये उत्पयंते. ॥ ४५ ॥ अथ सर्वोपसंहारगाथामाह
मूलम्॥--एए परीसहा सव्वे । कासवेणं पवेईया ॥ जे भिक्खू न विहन्निजा। पुट्टो केणइ कहा बेमि ॥ ४६॥ व्याख्या-एते द्वाविंशतिः सर्वे परीषहाः काश्यपेन श्रीमहावीरेण प्रवेदिताः, प्रकगाण ज्ञाताः, यान् ज्ञात्वा भिक्षुः साधुः केनापि परीषहेण स्पृष्टः सन् कुत्रचित्कस्मिंश्चित्प्रदेशे कस्मिंiश्चित्काले वा न विहन्येत संयमान्न पात्येत. ॥ ४६॥ इदं हि कर्मप्रवादनामाष्टमो हि पूर्वस्तस्य सप्तदशं प्राभृतं, तस्योद्धारलेशं द्वितीयमध्ययनपुत्तराध्ययनस्य.॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां द्वितीयमध्ययनं संपूर्णम्.॥
900900904.0000000
98 666666666666666604
0॥ ११० ॥
For Private And Personal Use Only