________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥१२०९॥
१२, बुद्धबोधितसिद्धः १३, एकसमये एकसिद्धः १४, एकसमयेऽनेकसिद्धः १५. एवं पंचदश भेदा सटीक 3| अपि षट्स्वेवांतर्भवंति. ॥ ५० ॥ अथ सिद्धानेवाऽवगाहनातः क्षेत्रतश्चाह
॥ मूलम् ||-उक्कोसोगाहणाए य । जहन्नमज्झिमाइ य ॥ उ8 अहे य तिरियं च । समुइंमि3 जलंमि य ॥ ५१ ॥ व्याख्या-अस्यां गाथायामुत्कृष्टावगाहनायां, तथा जघन्यावगाहनायां च पुनमध्यमावगाहनायां कति सिद्धाः कुत्र कुत्र स्थाने भवंति ? तदाह-उत्कृष्टावगाहनायां, अवगाह्यते जोवेनाकाशोऽनयेत्यवगाहना, उत्कृष्टा चासाववगाहना चोत्कृष्टावगाहना, तस्यामुत्कृष्टावगाहनायां सिद्धाः च पुनर्जघन्यमध्यमयोः, जघन्या च मध्यमा च जघन्यमध्यमे, तयोर्जघन्यमध्यनयोजघन्यावगाहनायां तथा मध्यमावगाहनायां, उत्कृष्टावगाहनाया जघन्यावगाहनायाश्चांतर्वर्तिनी मध्यमावगाहना, तस्यां सिद्धाः. ' उद्वे' इत्यूर्वलोके मेरुचलादो चैत्यवंदनां कर्तुं गतानां केषांचिच्चारणश्रम| णानां सिद्धिः स्यात्, तदा ते श्रमणास्तत्र कियंतः सिद्धा भवंति ? एवमधोलोके ग्रामनगरादी सिद्धाः ।
M ॥१२०९। कियंतो भवंति ? एवं तिर्यग्लोके सार्धतृतीयद्वोपेषु, समुद्रे, जले नद्यादौ, एतेषु स्थानेष्वेकस्मिन् समये
For Private And Personal Use Only