________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोर्क
ष्टयात्मकः, तत्र तिष्टंतीति संसारस्थाः, च पुनः सिद्धाः कर्ममलरहिता भवभ्रमणानिवृत्ताः. तत्र च ॥१२०॥ | सिद्धा अनेकविधा उक्ताः, तमिति तान् सिद्धभेदान् मे मम कीर्तयतः कथयतस्त्वं शृणु ? ॥४९॥
॥ मूलम् ॥–इत्थी पुरिससिद्धा य । तहेव य नपुंसगा ॥ सलिंगा अन्नलिंगाय । गिहलिंगे तहेव य ॥ ५० ॥ व्याख्या-'इत्थी' इति स्त्रियः पूर्वपर्यायापेक्षया सिद्धाः स्त्रीसिद्धाः १. एवं पुरुषपर्यायात्सिद्धाः पुरुषसिद्धाः २. तथैव तेनेव प्रकारेण नपुंसकपर्यायात्सिद्धा नपुंसकसिद्धाः, नपुंसकाश्च कृत्रिमा एव सिद्धा भवंति, न तु जन्मनपुंसकाः सिध्यंति ३. स्वलिंगसिद्धा यतिवेषेण सिद्धाः ४. अन्यलिंगसिद्धा बौद्धपरिव्राजकादिवेषेण सिद्धाः ५. तथैव गृहलिंगे सिद्धा गृहस्थवेषे सिद्धाः ६. षड् भेदाः सिद्धानामुक्ताः. ग्रंथांतरे पंचदश भेदा अपि. जिनसिद्धस्तीर्थकरः १, अजिनसिद्धो गणधरः २, तोर्थसिद्धः पुंडरीकादिः ३, अतीर्थसिद्धो मरुदेवादिः ४, गृहलिंगसिद्धो भरतादिः ५, अन्यलिंगसिद्धो वल्कलचीरिप्रमुखः ६, स्वलिंगसिद्धः साधुः ७, स्त्रीलिंगसिद्धश्चंदनबालादिः ८, नरसिद्धः स्थविरः ९, नपुंसकसिद्धो गांगेयादिः १०, प्रत्येकबुद्धः करकंड्वादिः ११, स्वयंबुद्धः कपिलकेवल्यादिः
॥१२०८॥
For Private And Personal Use Only