________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A
उत्तरा
सटीक
॥११९४॥
| कादिसंख्यातकालतो वा पल्योपमादेर्यावदनंतकालादपि तत्क्षेत्रावस्थितिः संभवतीति भावः ॥१४॥ अथ भावतः पुद्गलानाह
॥ मूलम् ॥-वन्नओ गंधओ चेव । रसओ फासओ तहा ॥ संठाणओ य विन्नेओ। परिणामो तेसिं पंचहा ॥ १५ ॥ व्याख्या-तेषां पुद्गलानां परिणामो वर्णतो गंधतो रसतः स्पर्शतस्तथा संस्थानतश्च पंचधा पंचप्रकारो ज्ञेयः. यतो हि पूरणगलनधर्माणः पुद्गलाः, तेषामेव परिणतिः संभवति. परिणमनं स्वस्वरूपावस्थितानां पुद्गलानां वर्णगंधरसस्पर्शसंस्थानादेरन्यथाभवनं परिणामः, स पुद्गलानां पंचप्रकार इत्यर्थः ॥१५॥ एषामेव प्रत्येकमुत्तरभेदानाह
मूलम् ॥-वण्णओ परिणया जे उ । पंचहा ते पकित्तिया॥ किण्हा नीला य लोहिया। हालिद्दा सुकिला तहा ॥ १६ ॥ व्याख्या-ये पुद्गला वर्णतः परिणताः संति, ते पुद्गलाः पंचधा प्रकीर्तितास्तीर्थकरैः कथिताः. ते के? तानाह-कृष्णाः कजलवर्णाः, पुनीलाः शुकपिच्छनिभाः, गुलिकासदृशा वा. लोहिता रक्ता हिंगुलवर्णाः. तथा हारिद्राः पोता हरितालनिभाः, तथा शुक्लाः
RCHCRACTRIC ACIRCLE
द॥११९४॥
For Private And Personal Use Only