________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥११९२॥
।। इत्तो कालविभागं तु । तेसिं वुच्छं चउविहं ॥११॥ व्याख्या-एते स्कंधाः (स्कंधा हि संहतानेक| परमाणुरूपाः) च पुनः परमाणव एकत्वेन पुनः पृथक्त्वेन, एकत्वेन समानपरिणतिरूपेण लक्ष्यंते, पृथक्त्वेन परमाग्वंतरैरसंघातरूपेण लक्ष्यंते इत्यध्याहारः, इति द्रव्यतो लक्षणमुक्तं. अथैतानेव क्षेत्रत आह-ते स्कंधाः परमाणवश्च 'लोए' इति लोकस्य चतुर्दशरज्ज्वात्मकस्यैकदेशः, एकद्वयादिसंख्यातासंख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन् लोके च भक्तव्या भजनीयाः क्षेत्रतः है क्षेत्रमाश्रित्य. अत्र च स्कंधपरमाणूनां ग्रहणेऽपि परमाणूनामेवैकप्रदेशावस्थानत्वात्, स्कंधाश्च बहुप्र
देशोपचिता अपि केचिदेकप्रदेशे तिष्टंति, अन्ये तु संख्येयेष्वसंख्येयेषु च प्रदेशेषु यावत्सकललोके तिष्टंति, परिणतेर्विचित्रत्वात्. 'इत्तोत्ति' इतः क्षेत्रप्ररूपणातोऽनंतरं तेषां स्कंधानां परमाणूनां च कालविभागं कालभेदं चतुर्विधं वक्ष्ये, साधनादिसपर्यवसिताऽपर्यवसितभेदेन कथयिष्यामि. इदं च सूत्रं षट्पादं गाथेत्युच्यते. ॥ ११ ॥
॥ मूलम् ॥—संतई पप्प तेणाई। अपजवसियावि य॥ ठिई पडुच्च साइया । सपज्जवसियावि
1943114
॥११९२॥
For Private And Personal Use Only