________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१०८॥
000000000000000
कुर्वन् केनचिन्मुनिना सातिशयज्ञानेन दृष्टो भणितश्च-विअड खणावी तइं छगल । तइआरोविअरुक्ख ॥ जन्नपवत्तण तइं कोयओ। काई बूबू मुरक्ख ॥ १॥'वियडत्ति' देशीवचनस्तटाकिकेत्यर्थः. यतिप्रणीतामिमां मागधिकां श्रुत्वाऽजा जातिस्मरणधरो मौनवान् जातः, तत्पुत्रेण साधुः पृष्टः कथमसो मौनी जातः? साधुः प्राहायं तव पिताजयागकरणादज एव जातः, तत्पुत्रेणोक्तमत्रार्थेऽभिज्ञानं किं? साधुः प्राह तव गृहांगणभूनिहितनिधिमसौ पादाग्रेण दर्शयिष्यति. ततस्तथैव तेनाजेन कृतं, पुत्रस्याजस्य च धर्मप्राप्तियोरपि देवलोकगतिर्जाता. एवं तेन ब्राह्मणेन शरणं मे भविष्यतीति कृत्वा तटाकसमीपे यज्ञारामो विहितः, स एवास्य वधस्थानतया भवनेन शरणा द्यमुत्थितमिति शब्दपदं जातं. एवं भवंतोऽपि शरणागतानामस्माकमनर्थकारिणो जाताः. एवमुक्तोऽपि त्रसकायिककुमारस्याभरणानि गृहीतानि. एवं षण्णामपि कुमारकाणां पंडितवादिनो यूयमित्युक्त्वाभरणान्यादायाग्रे चलितः सूरिः. पुनस्तेन देवेन सम्यक्त्वपरीक्षार्थं हारकंकणाद्यलंकृता साध्व्येका दर्शिता, तां दृष्ट्वा सूरिरेवमाख्यत्, हे प्रवचनोड्डाहकारिके ! दूरतो ब्रज ? मुखं मा दर्शय ? रुष्टया
0000000000000000000
॥ १०८॥
For Private And Personal Use Only