________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
॥११८५॥
सति प्रभुर्वीयीतरायक्षयतो विशिष्टसामर्थ्यवान् दुःखाच्छरीरमानसादुःखाद्विशेषेण मुच्यते, मुक्तो २ सटीक भवतीत्यर्थः. किं कृत्वा? आहारं 'निज्जृहिऊण' इति संलेखनया परित्यज्य, पुनः किं कृत्वा , मानुषी बौदिं तनुं त्यक्त्वौदाहिकशरोरं त्यक्त्वा दुःखरहितो भवतीत्यर्थः. ॥ २०॥
॥ मूलम् ॥-निमम्मे निरहंकारे । वीयरागे अणासवे ॥ संपत्ते केवलं नाणं । सासए परिनिव्वुडेत्तिबेमि ॥ २१॥ व्याख्या-एतादृशो यतिः शाश्वतोऽविनश्वरो मरणधर्मरहितः केवलज्ञानं संप्राप्तः सन् परिनिवृत्तो भवति; कर्माभावाच्छीतीभूतो भवति, सिद्धिगतिभाग्भवतीत्यर्थः. कोहशो | यतिः? निर्ममो लोभरहितः, पुनः कीदृशः? अनाश्रवः प्राणातिपातादिपंचाश्रवरहितः, पुनः कीदृशः? निरहंकारोऽहंकाररहितः, पुनः कोदृशः? वीतरागो रागद्वेषरहितः. सुधर्मास्वामी जंबूस्वामिनंप्रति वक्ति, अहमिति ब्रवीमि वीतरागवचनात्. ॥ २१ ॥ इत्यनगारमार्गाध्ययनं. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्भीवल्लभगणिविरचितायामनगारमार्गनामकं पंचत्रिं
+॥११८५॥ शमध्ययनं संपूर्ण. ॥ ३५ ॥ श्रीरस्तु ।
HAMARESCACAAA
For Private And Personal Use Only