________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
5E
सटोर्क
॥११८४॥
BACCURABANK
येत्तदा वचनकायाभ्यां दूरत एवापास्तं. तत् किं किं ? अर्चनं पुष्पादिभिः सत्कारणं, तथा सेवनं पर्युपासनं, चैव पदपूरणे, पुनर्वदनं स्तुतिकरणं, तथा पूजनं वस्त्रादिभिः प्रतिलोभनं न प्रार्थयेत्. पुनः साधुः ऋद्धिसत्कारसन्मानं मनसापि न प्रार्थयेत्. ऋद्धिश्च सत्कारश्च सन्मानं च ऋद्धिसत्कारसन्मानं, ऋद्धिः श्राद्धानां संपत्, अथवा वस्त्रपात्रादिसंपत् ; सत्कारोऽर्थप्रदानादिर्गुणकथन वा सन्मा. नमभ्युत्थानादि, एतत्सर्वं साधु भिलषेत्. ॥ १८॥
॥ मूलम् ॥-सुकज्झाणं झियाइज्जा । अनियाणे अकिंचणे॥ वोसहकाये विहरिजा ॥ जावकालस्स पज्जओ ॥ १९ ॥ व्याख्या-साधुः शुक्लध्यानं प्रागुक्तं ध्यायेत्. पुनः साधुरनिदानो निदानरहितोऽकिंचनो धनादिरहितः, पुनव्युत्सृष्टकायः सन् शरीरममत्वरहितः सन् यावत्कालस्य पर्यायो यावन्मृत्योः समयस्तावदेतादृशः सन् विहरेत्, अप्रतिबद्धविहारत्वेन विचरेदित्यर्थः ॥ १९ ॥
॥ मूलम् ॥-निज्जूहिऊण आहारं । कालधम्मे उवहिए ॥ चईऊण माणुसं बोंदि। पहू दुक्खे विमुच्चई ॥२०॥ व्याख्या–स साधुरेताहशे मागें संचरन् कालधमें उपस्थिते सति मरणे प्राप्ते
RADIDAHARI
॥११८४॥
For Private And Personal Use Only