________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kallassagarsur Gyarmandie
उत्तरा
॥११८०॥
निश्रितास्तत्रोत्पन्नास्तत्रागताः, जलरूपा एकेंद्रिया जीवाः, तथा तत्र भवाः पूतरकादयो जीवाः, ते 4
बाद सटोक पचनकाले ततोऽन्यत्र निश्रिता वा हन्यते यतो हि ये जीवा यत्र तिष्टंति, यत्रोत्पद्यते तत्र स्थिता एव ते सुखिनो भवंति. तदाश्रयनाशे तेषामपि नाशो भवति. एवं पृथ्वी च काष्टं च पृथ्वीकाप्टे, तत्र निश्रिताः पृथ्वीकाष्टनिश्रिता घूणाद्या हन्यते. भक्तपानपाके हि पृथ्वीकायवनस्पतिकाययोर्विराधना स्यादेव. तस्मात् त्रसस्थावरविनाशहेतुत्वाद् भिक्षुर्न पचेन्न पाचयेदिति भावः ॥ ११ ॥ अथाग्नेरारंभो हिंसाकारणमाह--
॥मूलम।।-विसप्पे सबओ धारे । बहपाणविणासणे ॥ नत्थि जोइसमे सत्थे । तम्हा जाई न दोवए १२ व्याख्या-साधुस्तामात्कारणाज्ज्योतिर्न दीपयेत्, अग्निं न प्रज्ज्वालयेत्, किं कारणं ? तदाह-ज्योतिःसममग्नितुल्यं बहुप्राणिविनाशनमन्यच्छस्त्रं नास्ति. अग्निः सर्वान् प्राणिनो विनाशयति. कथंभूतं ज्योतिःशस्त्रं ? विसर्पद्विशेषेण सर्पतीति स्फुरतीति विसर्पत, प्रसरणशीलं. पुनः कीदृशं ज्योतिःशस्त्रं? ॥११८०॥ सर्वतो धारं, सर्वतश्चतुर्दिक्ष धारा शक्तिर्यस्य तत्सर्वतोधारं, सर्वदिशास्थितजीवविनाशहेतुकमित्यर्थः.
1551315-15
For Private And Personal Use Only