________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥११८१ ॥
www.kobatirth.org
प्राकृतत्वादत्र लिंगव्यत्ययः पचनपाचनं त्वग्निप्रज्वालनं विना न स्यात्, अग्निप्रज्वालननिषेधेन पचनपाचनयोर्निषेधः पुनरग्निप्रज्वालननिषेधेन च शीतकालादावप्यग्निसमारंभो निषिद्धः यदा पचनपाचनानिप्रज्वलनादिनिषेधो भवति, तदा क्रयविक्रयाभ्यां निर्वाहः क्रियते, अतः साधूनां तन्नि षेधोऽप्युच्यते ॥ १२ ॥
॥ मूलम् ॥ - हिरवणं जायरूवं च । मणसावि न पच्छए । समले हुकं चणे भिक्खू । विरए कयविक्क || १३ || किर्णतो कइओ होइ । विकणंतो य वाणिओ ॥ कयविक्रयमि वतो । भिक्खू हव न तारसो ॥ १४ ॥ युग्मं । अनयोर्व्याख्या- भिक्षुः साधुर्हिरण्यं हेम, जातरूपं रूप्यं, चशब्दाद्वनधान्यादि मनसापि न प्रार्थयेत्. यदि मनसापि न प्रार्थयेत्तदा कथं गृह्णीयात् ? कीदृशो भिक्षुः ? समलेष्टुकांचनः, लेष्टु च कांचनं च लेष्टुकांचने, समे लेष्टुकांचने यस्य स समलेष्टुकांचनः, तुल्यकांचनपाषाणः पुनः कीदृशः ? क्रयविक्रयाद्विरतः, क्रयश्च विक्रयश्च क्रयविक्रयं तस्माद्विरतो रहितः | १३ | क्रयविक्रये दूषणमाह - 'किणंतो' इत्यादि, यतो हि साधुः क्रीणन् मूल्येन वस्तु गृह्णन् क्रयको भ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
छल
सटीकं
॥११८१ ॥