________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सटीक
॥११७९॥
वजए ॥ ९॥ व्याख्या-केषां प्राणिनां वधो दृश्यते? गृहकर्मसमारंभे प्रसाणां, द्वींद्रियत्रींद्रियचतुरिद्रियपंचेंद्रियाणां, तथा स्थावराणां, पृथिव्यप्तेजोवायुवनस्पतीनां सूक्ष्माणां लघुतरशरीराणां, अथवा सूक्ष्माणां चर्मचक्षुरगोचराणां, बादराणां स्थूलशरीराणां वधो दृश्यते. तस्मादारंभस्य प्राणिवधहेतुत्वात्संयतः परिवर्जयेत् ॥ ९॥ अथाहारविधिमाह
॥ मूलम् ॥-तहेव भत्तपाणेसु । पयणे पयावणेसु य ॥ पाणभूयदयठाए । न पए न पया| वए ॥ १०॥ व्याख्या-तथैव साधुभक्तपानेष्वन्नपानीयेषु पचने पाचने च त्रसानां स्थावराणां च ८ वधत्वेन प्राणभूतदयाथै त्रसस्थावरणां दयाथै स्वयमन्नपानीयं न पचेत, तथा साधुर्नान्नपानीयमन्येन पाचयेत् ॥१०॥ अन्नपानीयपचनपाचने जीवहिंसां दर्शयति
॥ मृलम् ॥-जलधन्ननिस्सिया जोवा । पुहवीकट्टनिस्सिया ॥ हम्मति भत्तपाणेसु । तम्हा भिक्खु न पयावए ॥ ११ ॥ व्याख्या-भक्तपानेषु पच्यमानेषु तथा पाच्यमानेषु सत्सु जलधान्यनिश्रितास्तत्रस्था जीवास्तथा पृथ्वीकाष्टनिश्रिता जीवा हन्यते. जलं च धान्यं च जलधान्यं, तत्र
॥११७९॥
For Private And Personal Use Only