________________
Shri Mahavir Jan Aradhana Kendra
Acharya Si Kailassagersun Gyarmandie
उत्तरा
सटोक
॥११७८॥
+REC-
परकृते, परैरात्मार्थ कृते.॥६॥
॥ मूलम् ॥–फासुयंमि अणावाहे । इत्थीहिं अणभिदुए ॥ तथा संकप्पए वासं । भिक्खू परमसंजए ॥७॥ व्याख्या-भिक्षुर्भिक्षावृत्तिः परमसंयतः सप्तदशविधसंयमवान् साधुस्तत्र पूर्वोक्तस्थाने स्मशानादौ वासं संकल्पयेत्कुर्यात्. कथंभूते स्थाने? प्रासुके जीवरहिते, अनावाधे स्वाध्यायांतरायकारणरहिते, पुनः स्त्रीभिरनभिद्रुतेऽकृतोपद्रवे घ्यादिसमीपवासरहिते इत्यर्थः ॥ ७॥
॥ मूलम् ॥-न सयं गिहाई कुविजा । नेव अन्नेहिं कारए ॥ गिहकम्मसमारंभे । भूयाणं | दिस्सए वहो ॥ ८॥ व्याख्या-साधुः स्वयं गृहाणि न कुर्यात्, न च साधुरन्यैरन्यजनैः कारयेत्. साधुहं न कुर्यान्न च कारयेत्, तत्र को हेतुस्तमाह-यतो गृहकर्मसमारंभे गृहकर्म इष्टिकामृत्तिकाखननजलाद्यानयनकोष्टादिनिमित्तवृक्षादिच्छेदनादिकर्म गृहकर्म, तस्य सभारंभो गृहकर्मसभारंभः, तत्र भूतानां प्राणिनां वधो दृश्यते. ॥ ८॥
॥ मूलम् ॥-तसाणं थावराणं च । सुहमाणं बायराण य ॥ तम्हा गिहसमारंभे । संजओ परि
SA-
G॥११७८॥
4
For Private And Personal Use Only