________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटो
॥११७७॥+
MC
-46-444+67
दोषः? तमाह
॥ मूलम् ॥-इंदियाणि उ भिक्खुस्स । तारिसं मे उवस्सए ॥ दुक्कराई निवारेउं । कामरागविबढणे ॥५॥ व्याख्या-ताशे मनोहरे चित्रमाल्यधूपादिसहिते उपाश्रये भिक्षोः साधोरिंद्रियाणि तु निवारयितुं विषयेभ्यो व्यावर्तयितुं दुष्कराणि दुःशक्यानि. पुनः कोदृशे मंदिरे ? कामरागविवर्धने, कामा इप्टेंद्रियविषयाः, तेषु रागः स्नेहस्तं विवर्धयतीति कामरागविवर्धनं, तस्मिन्. ॥ ५॥ तदा कुत्र स्थातव्यमित्याह
॥ मूलम् ॥-सुसाणे सुन्नगारेसु । रुक्खमूले व एगओ ॥ पयरिके परकडे वा । वासं तत्थाभिरोयए ॥ ६॥ व्याख्या-एकक एकाकी द्रव्यतो भावतश्च, द्रव्यतःसहायरहितः, भावतो रागादिरहितः, परिवारयुतोऽपि मनसैकत्वं चिंतयन् साधुस्तत्र तेषु स्थानेषु वास निवासं रोचयेत् , आत्मने रोचयेत्. केषु केषु स्थानेष्वित्याह-स्मशाने, पुनः शून्यागारे, वाशब्दश्चार्थे, तथा पुनक्षमूले, पुनर्वान्यत्र गृहादो. 'पयरिके' इति देशोभाषयकांते स्त्रीपशुपंडकादिरहिते. पुनः कोहशे स्थाने?
॥११७७॥
For Private And Personal Use Only