________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
सटोक
॥११७६॥
513
31-5
सज्यंते कर्मबंधनैः कृत्वा संसारिणो बध्यते इत्यर्थः ॥२॥
॥मूलम् ॥-तहेव हिंसं अलियं | चोजं अबंभसेवणं ॥ इच्छाकामं च लोहं च । संजओ परिवजए॥३॥ व्याख्या-ते के संगा मुनिना त्याज्याः? इत्याह-संयत एतान् संगान् परिवर्जयेत्. प्रथमं हिंसां, तथैव शब्दः पदपूरणे, पुनरलीकं मृषाभाषणं, चौर्य तथाऽब्रह्मसेवनं मैथुनसेवनं. इच्छां वांछारूपां, कामं भोगसुखं, लोभं परिग्रहरूपं परिवर्जयेत्समंतात्यजेत् ॥३॥
॥ मूलम् ॥-मणोहरं चित्तघरं । मल्लधूवणवासियं ॥ सकवाडं पंडुरुल्लोयं । मणसावि न पच्छए ॥४॥ व्याख्या-पुनर्मनोहरं चित्रगृहं विचित्रमंदिरं, चित्रैः सहितं गृहं वा चित्रगृहं, पुनः कथंभूतं गृहं? मल्लधूपनवासितं, माल्यानि च धूपनानि माल्यधूपनानि, तैर्वासितं माल्यधूपनवासितं. तत्र माल्यानि ग्रथितपुष्पाणि, धूपनानि दशांगादीनि, तैः सुगंधीकृतमित्यर्थः. पुनः कोह. शं चित्रमंदिरं ? सकपाटं कपाटसहितं. पुनः कीदृशं ? पांडुरोल्लोचमुज्ज्वलचंद्रोपकं. साधुरेतादृशं गृहं मनसापि न प्रार्थयेत्. अपि शब्दावचसा न प्रार्थयेत्. ॥ ४॥ तादृशे गृहे तिष्टतः साधोः को
॥११७६॥
For Private And Personal Use Only