________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उसरा
सटीक
॥११७३॥ है
ततेजःपद्मशुक्लाभिः षड्भिः प्रथमे समये तत्प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपत्वं प्राप्ताभिः सतीभिः परभवे कस्यापि जीवस्योपपातो नास्ति न भवतीत्यर्थः. उपपत्तिनं भवतीत्यनेन प्रथमसमये लेश्यासूत्पन्नासु परभवे जीवो नोत्पद्यते. सर्वाभिलेश्याभिश्चरमसमयेंत्यसमये परिणताभिरात्मरूपतामापन्नाभिः सतोभिः परभवे कस्यापि जीवस्योपपातो नास्तीति.॥५८॥५९॥ तर्हि कदोत्पद्यते? इत्याह
॥ मूलम् ॥ अंतोमुहुत्तमि गए। अंतमुहुत्तंमि सेसए चेव ॥ लेसाहिं परिणयाहिं । जीवा गच्छंति परलोयं ॥६०॥ व्याख्या-लेश्यामिः परिणताभिः सतीभिः शुभाशुभाभिः षभिः सतीभिरंतमुहूर्ते गते सत्यंतर्मुहुर्ते च शेषेच सति जीवाः परलोकं परभवं गच्छंतीत्यनेन जीवस्य मरणकाले आगामिभवलेश्यांतर्मुहतं यावदवश्यं भवति. तथा पुनर्जीवस्योत्पत्तिकालेऽतीतभवलेश्यांतर्मुहतं यावदवश्यं भवति. अन्यथा नराणां तिरश्चां च देवत्वे नारकत्वे चोत्पत्स्यमानानां मृत्युकालेंतर्मुहर्तमुत्तरभवलेश्याः कथं संभवंति? तथा देवानां नारकाणां च च्यवनानंतरं नरतिर्यक्षुत्पन्नानां प्राग्भवलेश्या अंतर्मुहूर्तं कथं संभवंति ? तस्मादंतर्मुहूर्तावशेष आयुषि परभवलेश्यापरिणामो भवत्येव, यदुक्तमा
KARNAGAR
॥११७३॥
For Private And Personal Use Only