________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥११७१॥
www.kobatirth.org
तथा पुन सागरोपमे पल्योपमासंख्येयभागयुक्ते उत्कृष्टा स्थितिस्तेजोलेश्याया भवति तत्र व्यंतरभवनपतिदेवानाश्रित्य तेजोलेश्यायाः स्थितिर्दशवर्षसहस्राण्युक्ता, पुनर्हे सागरोपमे पल्योपमासंख्येयभागयुक्ते, इयं तु द्वितीयदेवलोकापेक्षया तेजोलेश्याया उत्कृष्टा स्थितिरुक्तेति तात्पर्य ॥ ५३ ॥
॥ मूलम् ॥ - जा तेऊए ठिई खलु । उक्कोसा सा उ समयमज्झहिया || जहन्नेणं पद्माए । | दसमुहुत्ताहिया उ उक्कोसा ॥ ५४ ॥ व्याख्या - या तेजोलेश्यायाः खलु निश्चयेनोत्कृष्टा स्थितिर्वर्तते सा तु सैव स्थितिः समयाभ्यधिका पद्मलेश्यायाः स्थितिर्ज्ञेया. इयं तु पद्मलेश्याया जघन्या स्थितिस्तृतीयसनत्कुमारदेवलोकापेक्षया भवति. उत्कृष्टा तु पद्मलेश्याया दशसागरोपमाण्यं तर्मुहूतधिकानि स्थितिर्भवति. इयं च पद्मलेश्यायाः स्थितिः पंचमब्रह्मदेवलोकापेक्षया ज्ञेया ॥ ५४ ॥
॥ मूलम् ॥ - जा पाए ठिई खलु । उक्कोसा सा उ समयमज्झहिया ॥ जहन्नेणं सुक्काए । तेत्तीस मुहुत्तमज्झहिया ॥ ५५ ॥ व्याख्या - या पद्मलेश्यायाः खलु निश्चयेनोत्कृष्टा स्थितिर्वर्तते, सैव स्थितिरेकसमयाभ्यधिका जघन्येन शुक्लायाः स्थितिर्भवति. इयं शुक्ललेश्यायाः स्थितिः षष्टस्य लांत
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥११७१॥