________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
उत्तरा
सटोर्क
॥११६२॥
KAARAKHARKAR
ततः षष्टः शुक्ललेश्यावान् पुमानाह–किमर्थं भो वृक्षात्फलानि पात्यंते ? बहून्येवाध एव पतितानि संति, तैरेव क्षुधाया उपशमो भावीति. एवं लेश्योदाहरणं ज्ञेयं. ॥३२॥ अथ लेश्यानां स्थानान्याह
॥ मूलम् ।-असंखिजाणोसप्पिणीण । उवसप्पिणीण जे समया॥संखाईया लोगा। लेसाण हवंति ठाणाई ॥३३॥ व्याख्या-लेश्यानां सर्वासा तावंति स्थानानि भवंति, स्थानानि प्रकर्षाप्रकर्षकृतानि, अशुभानां लेश्यानां संक्लेशरूपाणि, शुभानां लेश्यानां विशुद्धरूपाणि भाजनानीत्यर्थः.लेश्यानां कियंति स्थानानि भवंति? यथाऽसंख्येया उत्सर्पिण्यो वर्धमानवर्धमानभावरूपाः, तथा पुनरसंख्येया अवसर्पिण्यो होयमानभावरूपाः, तासामुत्सर्पिण्यवसर्पिणीनां यावंतःसमया भवंति, पुनर्यावतोऽसंख्येया लोकाकाशप्रदेशा भवंति, तावंति लेश्यानां स्थानान्यारुहत्यारुहंति, पतंति पतंति च. शुभान्यशुभानि निर्मलानि कलुषाणि च स्थानानि भवंतीत्यर्थः ॥ ३३ ॥ अथ लेश्यानां स्थितिमाह
॥ मूलम् ॥-मुहत्तद्धं तु जहन्ना। तितीसं सागरा मुहत्तहिया ॥ उकोसा होइ ठिई। नायवा किण्हलेसाए ॥३४॥ व्याख्या-कृष्णलेश्याया इति स्थितिख़तव्या-जघन्या मुहूर्ताध, कैश्चिदं
For Private And Personal Use Only