________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोकं
॥११६१॥
लक्षणैर्लक्षितः शुक्ललेश्यां भजते इत्यर्थः. ॥ ३२ ॥ इह हि प्रशस्तलेश्यानां तेजःपद्मशुक्लानां विशे- पणे पुनरुक्तिदूषणं न ज्ञेयं. तासां लेश्यानां हि तेजःपद्मशुक्लानामुत्तरोत्तरविशुद्धया शुभाः, शुभतराः शुभतमाः परिणामा भावनीयाः. लेश्यानां लक्षणेषु दृष्टांतो जंबृवृक्षं निरीक्ष्य पट्गुरुपाणां परिणाम विचारणेन भावनीयः. तथाहि-एकस्मिन् मार्गे षट्पुरुषाश्चेलुः, तैश्च क्षुधातुरैर्मार्ग चैकः फलितो। जंबूवृक्षो दृष्टः, तदैकेन कृष्णलेश्यावता प्रोक्तमेनं वृक्षं मुलाच्छित्वैनं प्रपात्यास्य फलान्याः १. तदा द्वितीयेन नीललेश्यावता चोक्तं किमर्थं मुलाच्छिद्यते ? एका महत्तमा शाखा छेदनीया, तस्याः फलान्य स्तृप्तिं च कुर्मः २. तत् श्रुत्वा तृतीयः कापोतलेश्यावान् प्राह किमर्थं भो अस्य वृक्षस्य महाशाखा छिद्यते? एकायाः प्रतिशाखाया अपि फलैः सर्वेषां तृप्तिः स्यात, तस्मादेका लध्वो प्रतिशाखेव छेदनीया. ३. ततश्चतुर्थस्तेजोलेश्यावानवादीत, किमर्थ प्रतिशाखायाश्छेदः? वहवो गुच्छाः संति, तेन गुच्छा एव ग्राह्याः, तैरेव तृप्तिर्भविष्यति. ४. ततः पंचमेन पद्मलेश्यावता चैवमूचे, किमर्थ भो गुच्छाः पात्यंते? गुच्छेषु तु कच्चान्यपि फलानि भवंति, तस्मात्पक्वान्येव फलानि गृहीत्वा गृहीत्वाऽद्मः. ५.
42676-55-564560
॥११६१॥
For Private And Personal Use Only