________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥११४१॥
+ ॐRE
॥ १८ ॥ व्याख्या-कर्म ज्ञानावरणोयादिकं सर्वजोवानामेकेंद्रियादीनां, तुः पादपूरणे, संग्रहे संग्रहक्रियायां योग्यं स्यादिति शेषः. कीदृशं सदित्याह-'छदिसागयत्ति' पदिशागतं, पण्णां दिशां समाहारः पदिशं, तत्र गतं षड्दिशागतं, पदिकस्थितमित्यर्थः. तत्र चतस्रः पूर्वाद्या दिशः, ऊर्ध्वाधोदिग्दयं चेदं दिक्षटकं. अत्र षड्दिग्गतं कर्म गोंद्रियादिजीवानेवाधिकृत्य संग्रह क्रियायां योग्यं स्यादिति नियमः. एकेंद्रियाणां तु आगमे त्र्यादिदिस्थ कर्मग्रहणक्रियायां योग्यमप्युक्तमस्ति, अपरत्रागमे च तदाह- एगिदियाणं भंते तेया कम्मपुग्गलाणं गहणं करेमाणे किं तिदिसिं करेई ? जाव छदिसिं करेइ ? गोयमा सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं सिय च्छदिसिं करेइ. ३दियाणं भंते पुच्छा, गोयमा! बेंदिया जाव पंचेंदिया नियमा छदिसिं करेइ'. तच्च संगृहोतं सत् केन सह ? कियत् ? कथं वा स्यादित्याह-'सव्वेसुत्ति' सर्वैरप्यात्मप्रदेशैः सर्व ज्ञानावरणादि सर्वेण प्रकृतिस्थित्यादिना प्रकारेण बद्धं अन्योन्यं संबंधतया क्षीरोदकवदात्मप्रदेशैः श्लिष्टं, तदेव बद्धकं कर्म संग्रहे योग्यं भवति, | न त्वन्यत्. आत्मा हि सर्वप्रकृतिप्रायोग्यपुद्गलान् सामान्येनादाय तान् पुद्गलानध्यवसायविशेषात्
KA-NCRACCORRECT
॥११४१॥
For Private And Personal Use Only