________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥११४०॥
२. 4G
H CAREESH
॥ मूलम् ॥-सवेसिं चेव कम्माणं। पएसग्गमगंतय || गंटियसत्ताईयं । अंतो सिद्धाण आहियं ॥ १७ ॥ व्याख्या-सर्वेषां ज्ञानावरणीयादिकर्मणां प्रदेशाग्रं परमाणुपरिमाणं ग्रंथिगसत्वातीतं वर्तते. ग्रंथिं घनरागद्वेषपरिणतिरूपां गच्छंतीति ग्रंथिगाः, ग्रंथिगाश्च ते सत्वाश्च ग्रंथिगसत्वाः, तेभ्योऽतीतं, तान् वाऽतीतमतिक्रांतं ग्रंथिकसत्वातीतं. कोऽर्थः? रागद्वेषमयीं ग्रंथिं यावद्भेदनायागताः संतः, परं भेत्तुमशक्ताः पश्चादेव व्याधुटिताः, एतादृशा ये सत्वा अर्थादभव्या जीवास्तेभ्यः कर्मणां प्रदेशाग्रं परमाणूनां पारमाणमनंतगुणाधिकं, अभव्येभ्योऽधिकमित्यर्थः, पुनः सर्वेषां कर्मणां प्रदेशाग्रं सिद्धजोवानामंतराख्यातं, सिद्धेभ्योऽतर्मध्ये एवाख्यातं तीर्थकरैः कथितं. कोऽर्थः ? सिद्धजीवेभ्यः कर्मपरमाणुपरिमाणमनंतगुणेन होनमित्यर्थः. कर्माण्वपेक्षया सिद्धा अनंतगुणा इति भावः. अत एव कर्मपरमाणूनामनंतकं सिद्धानामंतर्वति प्रकाशितं. इदं संख्यानमेकसमयग्राह्यकर्मपरमाण्वपेक्षमुक्तं वर्तते.।। ॥ १७॥ प्रदेशापमुक्त्वा कर्मणां क्षेत्रं वदंति
॥ मूलम् ॥-सव्वजीवाण कम्मं तु । संगहे छदिसागय ॥ सवेसुवि पएसेसु । सवं सवेण बद्धगं
॥११४०॥
For Private And Personal Use Only