________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥११३९॥
ॐॐॐॐॐॐ
यस्मिन् विशेष्टे दातरि सति याचनानिपुणोऽपि याचको न लभते तल्लाभांतरायं २. पुनर्विभवादी सत्यपि भोक्तुं न शक्नोति तद्भोगांतरायं ३. येनोपभोगयोग्ये वस्तुनि सत्युपभोक्तुं न शक्यते तदुपभोगांतरायं ४. यद्वशाहलवान् नीरोगस्तरुणोऽपि तृणमपि भक्तुं न शक्नोति, तस्य पुरुषस्य वोर्यांतरायं कर्म ज्ञेयं. ५. ॥ १५॥ उक्तार्थस्य निगमनायोत्तरग्रंथयोजनायाह
॥ मूलम् ॥-एयाओ मूलपयडीओ । उत्तराओ य आहिया ॥ पएसग्गं खित्तकाले य। भावं वा अदुउत्तरं सुण ॥ १६॥ व्याख्या-एता मूलप्रकृतयोऽष्टावाख्याताः, तु पुनरुत्तरा अवांतरा ज्ञानावरणदर्शनावरणादीनां पंचनवाद्या अग्रे कर्मणां प्रकृतय आख्याताः. अथ प्रदेशाग्रं क्षेत्रकालो च, वाशब्दः पुनरर्थे, पुनर्भावं, अतः प्रकृत्यभिधानादुत्तरमग्रे वंशृणु ? अहं वदामोति शेषः. तत्र प्रदेशायं 7 किं? उच्यते-प्रदेशानां परमाणूनामग्रं परिमाणं प्रदेशाग्रं, क्षेत्रमाकाशं, कालश्च बद्धस्य कर्मणो जीवप्रदेशाऽविचटनात्मकः स्थितिकालः, भावमनुभागादिककर्मपर्यायलक्षणं चतुर्विधं प्रकृतिस्थितिप्रदेशानुभागखरूपमहं वदामि, त्वं शृणु? ॥ १६ ॥ अथ तावत्प्रदेशाग्रं वदति
॥११३९॥
For Private And Personal Use Only