________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyarmandie
O
उत्तरा
सटोक
॥११३८॥
आहियं ॥ १४ ॥ व्याख्या-गोत्रं कर्म द्विविधं, उच्च च पुनींचं. तत्रोच्चमुच्चैगोत्रमीक्ष्वाकुजात्यादि. उच्चैर्व्यपदेशहेतुजातिकुलरूपबलश्रुततपोलाभायष्टविधबंधहेतुत्वादष्टविधमुच्चैगोत्रं भवति. एवमित्य- * ष्टविधमेव जातिकुलादिमदाष्टनिबंधहेतुत्वान्नीचमपि नोचैगोत्रमपि नोचैव्य॑पदेशहेत्वाख्यातं. ॥१४॥ अथांतरायप्रकृतोराह
॥ मूलम् ॥-दाणे लामे य भोगे य। उवभोगे वीरिये तहा ॥ पंचविहमंतरायं। समासेण विया| हियं ॥ १५ ॥ व्याख्या-अंतरायं समासेन संक्षेपेण पंचविधं व्याख्यातं, तत्पंचवैध्यमाह-दाणे | लाभे भोगे उपभोगे तथा बीयें, एतेषु पंचस्वंतरायत्वात्पंचविधमंतरायं. तत्र दीयते इति दानं तस्मिन् दाने. लभ्यते इति लाभस्तस्मिन् लाभे. सकृदभुज्यते पुष्पहारादिपदार्थ इति भोगस्तस्मिन् भोगे. उपेति पुनः पुनर्भुज्यते भुवनांगनांशुकादीनीत्युपभोगस्तम्मिन्नुपभोगे. तथा विशेषेणेर्यते वेद्यतेऽनेनेति वीर्य, तस्मिन् वीर्य. सर्वत्रांतरायमिति संबंधः. ततो विषयभेदात्पंचविधमंतरायं. तत्र यस्मिन् सति चतुरे ग्रहीतरि, देये वस्तुनि, तस्य फलं जानन्नपि दाने न प्रवर्तते तद्दानांतरायं १.
+10+OCRACK
॥११३८॥
For Private And Personal Use Only