________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
॥११३७॥
सर्वा अपि शुभानुभावाच्छभनामकर्मणः प्रकृतयो ज्ञेयाः.
सटोक | तथाऽशुभनामकर्मणोऽपि मध्यमभेदविवक्षया चतुस्त्रिंशद्भेदा भवंति. तद्यथा-नरकगतिः १ || तिर्यग्गतिः २ एकेंद्रिय ३ दींद्रिय ४त्रींद्रिय ५ चतुरिंद्रियजातिः६ ऋषभनाराच ७ नाराच ८ अर्धनाराच ९ कोलिका १० सेवार्तकसंहननानि ११. न्यग्रोधपरिमंडलसंस्थान १२ सादि १३ वामन १४ कुब्ज १५ हूंडक १६ संस्थानानि. अप्रशस्तवर्ण १७ अप्रशस्तगंध १८ अप्रशस्तरस १९ अप्रशस्तस्पर्शाः २०. नरकानुपूर्वी २१ तिर्यगानुपूर्वी २२ उपघातं २३ अप्रशस्तविहायोगतिः २४ स्थावरं २५ सूक्ष्म २६ साधारण २७ अपर्याप्तं २८ अस्थिरं २९ अशुभं ३० दुर्भगं ३१ दुःस्वरं ३२ अनादेयं ३३ अयशोऽकीर्तिश्च ३४. एताश्चाऽशुभनारकत्वादिनिबंधनत्वेनाऽशुभाः. अत्र बंधनसंघाते शरीरेभ्यो वर्णाद्यवांतरभेदा वर्णादिभ्यः पृथग् विवक्ष्यंते. एताः प्रकृतयस्तु मध्यमविवक्षया प्रोक्ताः. उत्कृष्टविवक्षया तु १०३ प्रोक्ताः संति. ॥ १३ ॥ अथ गोत्रकर्मप्रकृतीय॑नक्ति
॥११३७॥ ॥ मूलम् ॥-गोयं कम्मं दुविहं । उच्चं नीयं च आहियं ॥ उच्चं अट्टविहं होइ । एवं नीयंपि
ACANCIASRACTRICANCE
For Private And Personal Use Only