________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
2000
सटीकं
उत्तरा- 1 ॥१०३॥
0 1.000000000६
अक्कमइ । जायं सरणओ भयं ॥१॥ एतन्यायेन शरणागतस्याप कथमेवं पराभवं करोषि ? सूरिभि- रुकमतिपंडितोऽसि बालेत्युक्त्वा तदंगाभरणानि गृहीतानि, पात्रेक्षितानि, गतः पृथिवीकायिकः. स्तोकांतरे गच्छद्भिराचायईितीयोऽप्कायिकनामा बालको दृष्टः, सोऽपि तथैवोवाच, तत्कथिता कथा चेयं
एकः पाटलनामा तालचरः प्रकामं वाग्मी, सोऽन्यदा गंगाश्रोतसि प्रविष्टः, तेन च द्वियमा। णोऽसा तटस्थजनेनाभाषि हे पाटल ! प्राज्ञ ! किंचित्सूक्तं पठ? सोऽवादीत्-जेण रोहंति बीआणि । जेण जीवंति कासवा ॥ तस्स मज्झे मरिस्सामि । जायं सरणओ भयं ॥ १॥ एवमप्कायिककुमारण कथोक्ता, तथापि तस्याभरणानि तेनाचार्येणातिपंडितोऽसि हे कुमारेत्युक्त्वा गृहीतानि, सोऽपि तथैव गतः. अग्रेऽग्निकायिकः कुमारस्तस्यापि तथैवोक्तिप्रत्युक्ती, तत्कथिता कथा चैषा
एकस्य तापसस्याग्निनोटजो दग्धः, स वक्ति-जमहं दिवा य राओ य । तप्पेमि महुसप्पिणा ॥ तेण मे उडओ दह्रो। जायं सरणओ भयं ॥१॥ अस्मिन्नेवार्थे द्वितीया कथा-कश्चित्पथिकः पथि व्याघ्रभीत्याग्निशरणं श्रितः, तेनैव तस्यांगं दग्धं, सप्राह-मए वग्यस्त भीएणं । पावओ सरणीकओ
१०३॥
For Private And Personal Use Only