________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा||११३४ ॥
-
%%%%%%%%%%
www.kobatirth.org
क्वाभावो मिथ्यात्वमशुद्धदलिकरूपं, यतस्तत्वेऽतत्वरुचिः, अतत्वे तत्वरुचिरुत्पद्यते तन्मिथ्यात्वं, तल मुह्यते इति मिथ्यात्वमोहनीयं यत्तु सम्यग्मिथ्यात्वमोहनीयं तत्तु शुद्धाशुद्धदलिकरूपं यस्माजनधर्मोपरि रागोऽपि न भवति, द्वेषोऽपि न भवति, अंतर्मुहूर्त स्थितिरूपं यथा नालिकेरद्वीपवासिपुरुषोऽनोपरि राग्यपि न भवति, द्वेष्यपि न भवति तादृग्स्वभावं मिश्रमोहनीयं तृतीयमुच्यते. एतास्तिस्रः प्रकृतयो दर्शने सम्यक्त्वेऽर्थाद्दर्शनस्य सम्यक्त्वस्य च मोहनीयकर्मणो ज्ञेया इति शेषः. सम्यक्त्वस्याऽज्ञानं सम्यक्त्वमोहनीयं मिथ्यात्वस्याज्ञानं मिथ्यात्वमोहनीयं, मिश्रस्य मोहो मिश्रमोहनोयं. इह हि सम्यक्त्वमिथ्यात्वमिश्ररूपा जीवस्य धर्मा उच्यंते ॥ ९ ॥ दर्शनमोहनीयं त्रिविध मुक्त्वाऽथ चारित्रमोहनोयभेदानाह--' चरितेति' गाथा पूर्वमेवोक्ता. अथान्वयः - तीर्थकरैश्चारित्रमोहनं कर्म द्विविधं व्याख्यातं. चरित्रे चारित्रग्रहणे मोहयति मूढं करोतीति चारित्रमोहनं, यत्र चारित्रफलं जानन्नपि तन्नाद्रियते, तद्द्वैविध्यमाह — कषायमोहनीयं प्रथमं, कषायाः क्रोधादयश्चत्वारस्तै महयतोति कषायमोहनीयं १ तथा नोकषायैर्नवभिर्हास्यादिषट्कवे दलिकरूपैर्मोहयतीति
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ११३४॥