________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥११३५॥
www.kobatirth.org
नोकषायमोहनीयं ॥ १० ॥
तत्र यत्प्रथमं कषायजं मोहनीयं कर्म, तत् षोडशविधं भवति कषाया हि क्रोधमानमायालोभाः, प्रत्येकमनंतानुबंधाऽप्रत्याख्यानप्रत्याख्यानसंज्वलनरूपैश्चतुर्भिर्भेदैः षोडशभेदा भवंति अथ नोकपायजे मोहनोयं कर्म सप्तविधं नवविधं वा भवति हास्य १ रति २ अरति ३ भय ४ शोक ५ जुगुप्सा ६ वेदत्रयाणां च सामान्यगणनयैकत्वमेव गम्यते, हास्यादिषट्कं वेदश्चैवं सप्तविधं यदा हि त्रयो वेदाः पुंस्त्रीनपुंसकरूपा गण्यंते तदा नवविधं नोकषायजं मोहनीयं भवतीत्यर्थः ॥ ११ ॥ अथायु:कर्मप्रकृतीराह
|| मूलम् ॥ - नेरइयतिरक्खाउ । मणुस्साउं तहेव य ॥ देवाउयं चउत्थं तु । आउकम्मं aa || १२ || व्याख्या - आयुः कर्म चतुर्विधं भवति, तथाहि - नैरयिकतिर्यगायुः, निरये भवा नैरयिकाः, नैरयिकाश्च तिर्यचश्च नैरयिकतिर्यचः, तेषामायुर्नैरयिकतिर्यगायुः, आयुः शब्दस्य प्रत्येकं संबंधः तथैव तृतीयं मनुष्यायुः च पुनश्चतुर्थं देवायुः एवं चतुर्विधमायुर्भवति ॥ १२ ॥ अथ
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
40
सटीक
॥११३५॥