________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सरा
सटोक
॥११२६॥
॥ मूलम् ॥--सव्वं तओ जाणइ पासए य। अमोहणे होइ निरंतराए॥अणासवे झाणसमाहि| जुत्ते । आउखए मोक्खमुवेइ सुद्धे ॥९॥ व्याख्या-ततः कर्मक्षयानंतरं सर्व जानाति, सर्वं पश्यति च, तदाऽमोहनो मोहनीयकर्मरहितः सन्निरंतरायोंतरायकर्मरहितो भवति. पुनरनाश्रवो भूत्वा ध्यानसमाधियुक्तश्चायुःक्षये शुद्धः सन् मोक्षमुपैति. ॥९॥
॥ मूलम् ॥-सो तस्स सवस्स दुहस्स मुक्खो। जं बाहई सययं जंतुमेयं ॥ दोहामयविप्पमुक्को पसत्थो । तो होइ अञ्चंतसुही कयत्थो ॥१०॥ व्याख्या-स मोक्षगामी पुरुषस्तस्माददुःखान्मुक्तो भवति. तस्मात् कस्मात्? यदुःखमेतं जंतुमेतं प्राणिनं सततं निरंतरंबाधते पीडयति, तस्मात्सर्वस्माद्दुःखान्मुक्तो भवति. कीदृशः स मोक्षगामी पुरुषः? दीर्घामयविधमुक्तः, दीर्घाणि प्रलबस्थितीनि यानि कर्माण्येवामया रोगा दीर्घामयास्तेभ्यो विशेषेण प्रमुक्तो भवति, दीर्घामयविप्रमुक्तो दीर्घकर्मरोगरहितः, पुनः कीदृशः? अत एव प्रशस्तः प्रशंसायोग्यस्ततः कर्मरोगाऽभावादत्यंतसुखी कृतार्थः कृतकृत्यः सिद्धो भवतीत्यर्थः ॥ १०॥ अथ निगमनमाह
PUCCORROCELANCHOLOG
॥११२६॥
For Private And Personal Use Only