________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥११२५ ॥
www.kobatirth.org
यमयुक्तस्य च पुनरर्थानिंद्रियार्थान् शब्दादिविषयान् विचारयतः, यतो रूपादय इंद्रियार्था मत्तः सकाशात्पृथगेव तिष्टंति, त एते पापहेतवः, पापहेतवस्तु स्वस्मिन् स्थिता रागद्वेषादय इति विचारयतः, एतावता रागद्वेषादीनां स्वरूपं चिंतयतः, इंद्रियार्थस्वरूपं चिंतयतः पुरुषस्य माध्यस्थ्यमुत्पद्यते, अथवाऽर्थान् संकल्पयतो विचारयतः समता संजायते यदुक्तं-जीवाड़ नवपयत्थे । जो जाणइ तस्स होइ सम्मतं ॥ ' तओ से इति ' ततः समत्वोत्पत्तितस्तस्य पुरुषस्य कामगुणेषु विषयेषु तृष्णा लोभः प्रकर्षेण होयते ॥ ७ ॥
॥ मूलम् ॥ - स वीयरागो कयसवकिच्चो । खवेइ नाणावरणं खणेणं ॥ तहेव जं दरिसणमावरेइ | जं अंतराय पकरेइ कम्मं ॥ ८ ॥ व्याख्या -यस्य पुरुषस्य कामगुणेषु शब्दादिषु लोभो निवर्तते, स निर्लोभी वीतरागः कृतसर्वकृत्यः सन् कृतसर्वकार्यः सन् क्षणेन ज्ञानावरणं पंचविधं क्षपयति तथैव यदर्शनं क्षुदर्शनावरणं, यच्चांतरायं दानादिलब्धेर्विघ्नं प्रकरोति, तत्कमतिरायनामकर्मेत्यर्थः, तदपि क्षपयति ॥ ८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥११२५ ॥