________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandie
उत्तरा
सटोक
११२३॥
-
-
मणां करिष्यतीति बुध्ध्या शिष्यं लिप्सतीति सहायलिप्सुस्तादृशः सन् पश्चाद्वततपसोरंगीकारादनं. तरमनुतापं यस्य स पश्चानुतापः (किमेतावन्मया कष्टमंगीकृतमिति चित्तबाधात्मकः) तपसः प्रभावो भवांतरे भोगानां भोक्ता स्यामित्यादिचिंतनं तपःप्रभावस्तं, अथवेहवामोषध्यादिलब्धिमान् स्यामित्यादिकं नेच्छेत् ॥ ४॥
॥ मूलम् ॥-तओ से जायंति पओयणाइ । निमजिउं मोहमहन्नवमि ॥ सुहेसिणो दुक्खविणोयणट्टा । तप्पच्चयं उज्जमए य रागी ॥५॥ व्याख्या-ततः कषायवेदादीनां प्राप्तेरनंतरं, तस्य द्रियचौराणां वशीभूतस्य मोहमहार्णवे मोहमहासमुद्रे निमजयितुं, तं जीवं अडयितुं प्रयोजनानि विषयसेवनहिंसादीनि जायते उत्पाते. किमर्थमेतानि विषयसेवनहिंसादीनि प्रयोजनानि जायते ? दुःखस्य विनोदार्थ परिहारार्थ, सुखैषितायां हि दुःखपरिहाराय विषयसेवनादिप्रयोजनसंभव इति भावः. कीदृशस्य तस्य ? सुखैषिण इंद्रियसुखाभिलाषिणः. ततश्च तत्प्रत्ययं, तेषां पूर्वोक्तानां विषयसेवाहिंसादीनां प्रयोजनानां प्रत्ययं निमित्तं तत्प्रत्ययं, तदर्थ तन्निमित्तं रागी द्वेषी च जीवः ‘उज्ज
----
-
-
--
॥११२३॥
For Private And Personal Use Only