________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥११२२॥
जुगुप्सां प्राप्नोति, विपरीतं सटितं क्वथितं वा दृष्ट्वा सूकरूपां, तथाऽरतिमुद्वेगरूपां, रतिं हर्षरूपां, हास्य च प्राप्नोति. तथा भयमाप प्राप्नोति, तथा शोक पुंस्त्रीवेदं, शोकं प्रियवियोगजं मनोदुःखरूपं, पुंवेदं स्त्रिया सह विषयाभिलाषरूपं, स्त्रीवेदं पुरुषेण सह विषयाभिलाषं, शोकश्च पुंस्त्रीवेदश्च शोकपुंस्त्रीवेदं, तदपि विषयासक्तो जोवः प्राप्नोति. तथा पुनः कदाचिन्नपुंसकवेदं प्राप्नोति. स्त्रीपुंसोरुभयोर्विषयाभिलाषरूपं नपुंसकवेदं लभते. च पुनर्विविधान् भावान् हर्षविषादादीन् प्राप्नोतीति गाथाद्वयार्थः. ॥ २ ॥३॥ अथ रागद्वेषोद्धरणे उपायं, पुना रागद्वेषयोरनुद्धरणे प्रकारांतरेण दूषणं चाह
। मूलम् ॥-कप्पं न इच्छिज्ज सहायलिच्छ । पच्छाणुतावे य तवप्पभावं ॥ एवं वियारे अमियप्पगारे । आवजई इंदियचोरवस्से ॥४॥ व्याख्या साधुः सहायलिप्सुः सन् कल्पमपि नेच्छेत्, तदाऽकल्पं कथमिच्छेत् ? च पुनः साधुः पश्चानुतापः संस्तपःप्रभावमपि नेच्छेत्. अत्र हेतुमाह-इंद्रियचौरवश्यः पुमानमितप्रकारान् बहुविधानेवं पूर्वोक्तान विकारानापद्यते प्राप्नोति. कल्पते स्वाध्यायादिक्रियासु समों भवतीति कल्पो योग्यस्तं कल्पं स्वाध्यायादियोग्यं सहायं, मम विश्रा
ॐ45-450k
द॥११२२॥
For Private And Personal Use Only