________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
३११२१ ॥
www.kobatirth.org
1
॥ मूलम् ॥ कोहं च माणं च तहेव मायं । लोभं दुगंछं अरई रई च ॥ हासं भयं सोगपुमित्थवेयं । नपुंसवेयं विवि य भावे || २ || आवजई एवमणेगरूवे । एवंविहे कामगुणेसु सत्तो ॥ अन्ने य एयप्पभवे विसेसे । कारुण्णदीणे हरिमे वइस्से ॥ ३ ॥ युग्मं ॥ व्याख्या - कामगुणेषु शब्दादिविषयेषु सक्तो रागी जीव एवममुना रागवत्वलक्षणप्रकारेणानेकरूपान्नानाविधान् विकारानेवंविधानुक्तस्वरूपाननंतानुबंधिप्रमुखानापद्यते प्राप्नोति च पुनरेतत्प्रभवानेतेभ्यः क्रोधादिभ्यः प्रभवा उत्पन्ना एतत्प्रभवास्ता नेतत्प्रभवान् क्रोधादिजनितान् परितापदुर्गतिपातादीन् प्राप्नोति कोदृशः सन् ? करुणायै अर्हः कारुण्यः, कारुण्यत्वेन दीनः कारुण्यदीनोऽत्यंतं दीन इत्यर्थः पुनः कीदृशः ? ह्रीमान् | लज्जितः प्रीतिविनाशादिकमिहैवानुभवन्, परत्र च विपाकमतिकटुकं परिभावयन् पुनः कीदृशः ? 'वइस्से' इत्यात्वाद् द्वेष्यः सर्ववाप्रीतिकर इत्यर्थः इति द्वितीयगाथया संबंधमुक्त्वा प्रथमाया अर्थमाह - विषयासक्तो जीवः कान् कान् स्वरूपानापद्यते ? इत्याह - विषयासक्तो जीवः कदाचित्क्रोधं प्राप्नोति च पुनर्मानं प्राप्नोति, तथैव मायां प्राप्नोति तथा लोभं मूच्छां प्राप्नोति, 'दुगंछं' इति
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
।।११२१ ॥