________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटीकं
॥१०१॥
0000000000000
ऋषिभिष्टगितोऽस्मीति भिक्षुर्न चिंतयेन्न विचारयेत्. ते जिनाः केवलिन एवमाहुः कथयतिस्म तन्मृषा | तदसत्यं, एवं तत् किं ? जनास्तीर्थकराः केवलिनो वाऽभूवन्, पुनर्जिनाःसंति, सांप्रतं वर्तमानकाले | महाविदेहक्षेत्रादो संति, अथवाऽग्रे भविष्यंतीति यदृचुस्तदसत्यं, प्रत्यक्षमदृश्यमानत्वात्. इति विचारे क्रियमाणे सम्यक्त्वसंगः स्यात, तस्मादिति न विचारणीयं, सम्यक्त्वपरीषहः सोढव्यः. अत्रार्या| षाढसूरिकथा
वत्साभूम्यामाषाढमृतिसूरयस्तत्र गच्छे यो यः कालं करोति तं तं निर्जरयामासुः, अंत्यसमये तेषामेवं कथयति युष्माभिः स्वर्गे सुरीभ्य मम दर्शनं देयं, ते च स्वर्गे गच्छंति, परमाचार्याणां दर्शनं न ददति. तथा च सूरीणां परलोकशंका जायते. एकदैको विनेयः प्रकामं स्वभक्तः समाधि| मरणसमये सूरिभिरेवमुक्तस्त्वया स्वर्गे देवीभृयावश्यं मम दर्शनं देयं, न प्रमाद्यं, सोऽपि मृत्वा देवो| जातः, परं विचित्ररचनानाध्यादिदर्शनेन व्यग्रत्वान्नात्रायातः, तावता सूरिभिरेवं चिंतितं नास्त्येव | परलोकस्ततः कोऽपि नात्रागच्छति, यदि परलोकः स्यात्तदा मच्छिष्याः कृतप्रतिज्ञा अपि कथं न
D90000396996806080
॥१०॥
For Private And Personal Use Only