________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥१०
॥
000000000000000000000
स्थूलभद्रस्वामी विहरन् बालमित्रद्विजगृहे गतः, तत्र तमदृष्ट्वा तद्भाय पृष्टवान् क ते पतिर्गतः? सा प्राह परदेशे धनार्जनार्थं गतोऽस्ति. ततः स्वामी तद्गृहस्तंभमूलस्थितं निधिं पश्यन् स्तंभाभिमुखं हस्तं कृत्वा 'इदमीदृशं स च तादृशः' इति भणित्वा गतः. ततः कालांतरे गृहागतस्य विप्रस्य तद्भार्यया स्थूलभद्रस्वामिवचो ज्ञापितं, तेन पंडितेन ज्ञातमत्रावश्यं किंचिदस्ति. ततः खानितः स्तंभः, लब्धो निधिः. एवं स्थूलभद्रेण ज्ञानपरोषहो न सोढः, शेषसाधुभिरपीदृशं न कार्य. अथाज्ञानदर्शोऽपि कश्चित्संशयः स्यादतस्तत्परीषहः कथ्यते
॥ मूलम् ॥-नस्थि नूणं परे लोए । इठी वावि तवस्सिणी ॥ अदुवा वंचिओ मित्तो।ईई भिक्खू न चिंतए ॥४४॥ अभू जिणा अस्थि जिणा । अदुवावि भविस्सई ॥ मुसंते एवमाहंसु । ईई भिक्खू न चिंतए ॥ ४५ व्याख्या-नूनमिति संभावनायां प्रलोके नास्ति, परलोके गतः कोऽपि नात्रागत्य वदति, तस्मात्प्रत्यक्षस्थाभावान्नास्ति परलोकः, वाऽथवा तपस्विनोऽपि साधोरपि काचिद्, ऋद्धिरामर्षांषधिवपुषौषधिखेलौषधिप्रमुखा काचिन्नास्तिनदृश्यते,अथवा किंबहुना ? अहं वंचितोऽस्मि,
300000000000000000000
॥१०॥
For Private And Personal Use Only