________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
उत्तरा
॥१११६॥
CHOCOLOCAL
SA-CANCERICANCHAR
भिलाषसहितश्चित्रैरनेकप्रकारैः संकल्पनैरनेनौषधेनाहं वशीकरणं करोमि, अनेनौषधेन स्वर्णसिद्धिंद्र सटोकं करोमि, अनेनौषधेन पुत्रो भवति, इत्यादिचिंतनैर्बालोऽविवेकी चराचराननेकरूपान् जीवान् हिनस्ति, परितापयति तथा पीडयति. परं कीदृशः? 'अत्तगुरु' स्वार्थपरायणः, पुनः कोदशः? क्लिष्टो रागायुपहतचित्तः ॥ ९२ ॥
॥ मूलम् ।। भावाणुवाएण परिग्गहेण । उप्पायणे रक्खणसंनिओगे ॥ वए विओगे य कहं सुहं से। संभोगकाले य अतत्तिलाभो ॥ ९३ ॥ व्याख्या-भावानुपातेन विषयादिचिंतनेन, तथा परिग्रहेण विषयादिमिलनेन, तथोत्पादने, एते विषयादिपदार्थाः कथं मे मिलिष्यति ? इति चिंतने, तथा रक्षणे आरोग्यबुद्धिप्रमुखभावरक्षणे, तथा संनियोगे परस्य कुबुद्धिसुबुध्ध्यादिदाने, तथा व्यये निद्रास्मृतिप्रमुखाणां होनत्वे, वियोगे परस्योत्तरदानादौ समर्थाया बुद्धेः स्फुरणस्याऽभावे भावानुरक्तस्य कुतः कस्मात्सुखं भवेत् ? अपितु कुतोऽपि सुखं न स्यादेव. पुनः संभोगकाले चाऽनृप्ति- ॥१११६॥ लाभो दुःखं, भावनायां चिंतनकालेऽपि तृप्तेर्लाभो न स्यात्. सत्कुंभभंजकपुरुषवत् सुखं न लभते.
For Private And Personal Use Only