________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
हासटोक
॥१११०॥
णेन विरागो मुनि लिप्यते. ॥ ७८ ॥
॥ मूलम् ।।-फासाणुगासाणुगए य जोवे । चराचरे हिंसइणेगावे॥ चित्तेहिं ते परितावेइ बाले । पोलेइ अत्तगुरू किलिहे ॥ ७२ ।। व्याख्या स्पर्शानुगाशानुगतो जीवः स्पर्शाभिलाषसहितो जीवो बालो निर्विवेकी चित्रैरनेकरूपैरुपायैः शस्त्रैः कृत्वाऽनेकरूपांत्रसान् स्थावरान् जीवान् | हिनस्ति पीडयति. कोदृशः सः? आत्मार्थगुरुः स्वार्थपरायणः. पुनः कोशः? क्लिष्टो रागायुपहतचित्तः.
॥ मूलम् ॥-फासाणुराएण परिग्गहेण । उप्पायणे रक्खणसंनिओगे ॥ वए विओगे य कहं | सुहं से । संभोगकाले य अतत्तिलाभे । ८० ॥ व्याख्या स्पर्शानुरागेण, स्पर्शानुरागे जाते सति | वा स्पर्शपरिग्रहेण स्पर्शानुरक्तस्य जीवस्य स्पर्शानामुत्पादने तथा स्पर्शानां रक्षणे, तथा स्पर्शानां
संनियोगे स्वपरयोग्यप्रयोजनव्यापारणे, तथा पुनः स्पर्शानां व्यये न्यूनत्वे, तथा स्पर्शानां वियोगे विनाशे, तस्य स्पर्शानुरक्तस्य कुतः सुखं स्यात् ? सर्वकालेऽसुखमेव स्यात्. च पुनः स्पर्शानां संभोगकालेऽप्यतृप्तिलाभ एव दुःखमेव भवति. ॥ ८॥
6॥१११०॥
For Private And Personal Use Only