________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा१११०८ ।।
-
*% *%e0
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
सटोकं
न्नमाहु । समो य जो तेसु स वीयरागो ॥ ७४ ॥ व्याख्या - तीर्थंकरः कायस्य स्पर्शनेंद्रियस्य स्पर्श शीतोष्णखर मृद्वादिकमष्टविधं विषयं ग्रहणं वदंति तं स्पर्शविषयं मनोज्ञं मनोहरगुणसहितं रागहेतुमाहुः, तमेवाऽमनोज्ञमसुंदरं द्वेषहेतुमाहुः तेषु मनोज्ञामनोज्ञेषु स्पर्शेषु यः समस्तुल्यपरिणामः स वीतराग उच्यते इति शेषः ॥ ७४ ॥
॥ मूलम् ॥ - फासस्स कार्य गहणं वयंति । कायस्स फासं गहणं वयंति ॥ तं रागहेउं समएन्नमाहु । दोसस्स हे अमणुन्नमाहु ॥ ७५ ॥ व्याख्या - तीर्थंकराः स्पर्शस्य शीतोष्णादेः पुनलस्य कार्य स्पर्शनेंद्रियं ग्रहणं ग्राहकं वदति, तथा कायस्य स्पर्शनेंद्रियस्य स्यर्श शीतोष्णादिकं ग्रहणं ग्राह्यं वदंति तत्स्पर्शनेंद्रियं शरीरं समनोज्ञं मनोज्ञस्पर्शग्राहकं रागहेतुकमाहुः, तदेव स्पर्शनेंद्रियममनोज्ञममनोज्ञस्पर्शग्राहकं द्वेषहेतुकमाहुः ॥ ७५ ॥
॥११०८ ॥
॥ मूलम् ॥ फासेसु जो गिडिमुवेइ तिवं । अकालियं पावड़ से विणासं ॥ रागाउरे सोयजलावसन्ने । गाहग्गिहीए महिसेव रन्ने ॥ ७६ ॥ व्याख्या - यो मनुष्यः स्पर्शेषु स्पर्शनेंद्रियविष- *