________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
॥११००॥
एवमसंतोषी महादुःखीत्युक्तत्वात्. तस्मादेतादृशस्य गंधानुरक्तस्य कुतः सुखं स्यात् ? अपितु न स्यादेव. 5 सटीक
॥ मूलम् ॥-गंधे अतत्तो य परिग्गहमि । सत्तोवसत्तो न उवेइ तुहिं ॥ अतुहिदोसेण दुही परस्स । लोभाविले आययई अदत्तं ॥ ५५ ॥ व्याख्या-गंधेऽतृप्तोऽसंतुष्टः पुमान् परिग्रहे भवति, | सामान्येन रतिमान् भवति. ततः पश्चात्सतः सन्नुपसक्तोऽत्यंतं रतिमान् भवति, तदा च सक्तोपसक्त उच्यते. तादृशः सक्तोपसक्तश्च तुष्टिं संतोषं नोपैति. स चातुष्टिदोषेण दुःखी सन्नन्यस्याऽदत्तं द्रव्यमादले. कीदृशः सः? लोभाविलो लोभेन कलुषः ॥ ५५॥
॥ मूलम् ॥-तण्हाभिभूयस्स अदत्तहारिणो । गंधे अतत्तस्स परिगहे य ॥ मायामुसं बढुइ लोभदोसा । तत्थावि दुक्खा ण विमुच्चई से ॥ ५६ ॥ व्याख्या-तृष्णाभिभूतस्य सुगंधद्रव्यलोभेन पराभूतस्य, ततोऽदत्तहारिणो गंधे गंधविषयेऽतृप्तस्य पुरुषस्य लोभदोषान्मायामृषा संवर्धते. तत्रापि मायामृषायामपि स मृषावादी जीवो दुःखान्न विमुच्यते. ॥ ५६ ।।
॥११००॥ ॥ मूलम् ॥–दोसस्स पच्छा य पुरच्छओ य । पओगकाले य दुही दुरंते ॥ एवं अदत्ताणि
ॐ4%D1%
ॐॐ
For Private And Personal Use Only