________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥१०९५॥
SERRORE
तापं करोति. पुनःशब्दलोभी मृषाभाषणस्य पुरस्ताच कथं मयासौ शोभनशब्दगुणवान् पदार्थों ग्राह्यो वंचना वा कायेति मृषाभाषणात्पूर्वमपि चिंतादुःखोपेतः स्यात्, पुनः स च प्रयोगकाले मृषाभाषणप्रस्तावे च दुःखी स्यात. यतो हि मृषां जल्पतं मामसौ माजानात्वप्येवममुना प्रकारेण शब्देऽतृप्तो जीवोऽदत्तानि शब्दगुणवद्वस्तूनि समाचरन गृह्णन् दुःखितो भवति. त्रिकालमपि दुःखभाग्भवति.8 कीदृशः सः ? अनिश्रो निश्रारहितः, यतो ह्यदत्तग्राहिणोऽन्याययुक्तस्य न कोऽप्यवष्टंभदाता स्यात.
॥ मूलम् ॥--सदाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कया य किंचि ।। तत्थोवभोगेवि कलेसदुक्ख । निबत्तई जस्स कएण दुक्ख ॥ ४५ ॥ व्याख्या-शब्दानुरक्तस्य मनुष्यस्यैवमनेनो| क्तप्रकारेण कदापि किंचित्स्तोकमपि सुखं भवति ? अपि तु सर्वथैव न सुखं. यस्तत्र शब्दानुरागे | उपभोगेऽपि क्लेशदुःखं, अतृप्तिलाभलक्षणपीडाजनितमसातं निवर्तयत्युत्पादयति. पुनः' जस्स क
एण' इति यस्य मनोज्ञशब्दोपभोगस्य कृते शब्दोपभोगार्थं दुःखमात्मनः कष्टं निवर्तयत्युत्पादयति, | तस्य कदापि सुखं नास्तीत्यर्थः, सुखस्य कारणं तत्र किमपि नास्ति. ॥ ४५ ॥
१०९५॥
For Private And Personal Use Only