________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१०९४॥
A-MAHAGENAGE
उपसक्तः, सक्तश्चासावुपसक्तश्च सक्तोपसक्तः, परिग्रहे गाढानुरक्तस्तुष्टिं संतोषं नोपैति, अतुष्टिदोपेण दुःखी भवति. पुनरसंतोषी परस्यान्यस्य संबंधि शोभनशब्दकारिवस्तुवादित्रादिलोभाविलो लोभकलुषोऽदत्तमादत्ते, अदत्तं गृह्णाति. ॥ ४२ ॥
॥ मूलम् ॥-तण्हाभिभूयस्स अदत्तहारिणो । सद्दे अतत्तस्स परिग्गहे य ॥ मायामुसं वढुइ | लोभदोसा । तत्थावि दुक्खा न विमुच्चइ से ॥४३॥ व्याख्या-शब्देऽतृप्तस्य प्राणिनः परिग्रहे तृष्णाभिभृतस्याऽदत्तहारिणश्च लोभदोषान्मायामृषा संवर्धते. पुनस्तस्य प्राणिनस्तत्रापि मायामृषायामपि दुःखान्न विमुच्यते, मायामृषाजल्पनकालेऽपि दुखःमाक् स्यादित्यर्थः. ॥४३॥ तदेव दुःखं दर्शयति
॥ मूलम् ॥-मोसस्स पच्छाय पुरच्छओ य | पओगकाले य दुही दुरंते ॥ एवं अदत्ताणि समाययंते । सद्दे अतत्तो दुहिओ अणिस्सो ॥४४॥ व्याख्या-मृषाभाषी पुमान् मृषावाक्यस्य पश्चात्पुरतश्च प्रयोगकाले च दुरंतो दुःखांतो भवति, अंते दुखःभाक् स्यात्. मायया मृषामुक्त्वा, पश्चान्मृषाभाषणस्य पश्चात्तापं करोति, मनस्येवं जानाति, मया सुसंस्थापितं वाक्यं नोक्तमिति पश्चा
GREHRA
6॥१०९४॥
For Private And Personal Use Only