________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा15 कांश्चिजीवान् पीडयति कीदृशः स बालः? 'अत्तगुरु' आत्मार्थगृरु खार्थपरायणः. पुनः कीदृशः? || सटोकं
'किलिट्ट' क्लिष्टो रागद्वेषोपहतचित्तः ॥४॥ १०९३॥
॥ मूलम् ।।-सदाणुराएण परिग्गहेण । उप्पायण रक्षणसंनियोगे ॥ वए वियोगे य कहिं सुहं से । संभोगकाले य अतत्तिलाभो ॥ ४१ ॥ व्याख्या-मनोज्ञशब्दश्रवणलोभाभिभूतस्य प्राणिनः कुतः सुखं ? तदेवाह-शब्दानुरागेण तथा परिग्रहेण मूर्छारूपेणोत्पादने मनोहरशब्दोपेतचेतना. चेतनद्रव्योत्पादने, पश्चात्तेषां रक्षणे, पश्चात्तेषां संनियोगे स्वपरप्रयोजने सम्यग्व्यापारणे, व्यये विनाशे, वियोगेऽर्थाच्छब्दार्थिनः पुरुषस्य कुतः सुखं ? पुनस्तस्य शब्दानुरागिणो जंतोः संभोगकाले | चातृप्तिलाभो दुःखं भवति, शब्दश्रवणे रागिणां न तृप्तिरिति भाव. ॥४१॥
॥ मूलम् ॥-सहे अतत्ते य परिग्गहमि । सत्तोवसत्तो न उवेइ तुहि ॥ अतुहिदोसेण दुहो। परस्त । लोभाविले आययई अदत्तं ॥ ४२ ॥ व्याख्या-शब्देऽतृप्तो जीवः परिग्रहे सक्तः स्यात्, सामान्येन रक्तो भवेत्, उपसक्तश्च गाढमासक्तः स्यात्. ततश्च सक्तोपसक्तः स्यात्. अत्यंतं सक्त 3
ॐ5---
16
For Private And Personal Use Only