________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥१०९२ ॥
%%%
www.kobatirth.org
तस्य पुरुषस्य शब्दः किंचिदपि नापराध्यति, शब्दस्य न कोऽपि दोषः, जंतोः श्रोत्रेंद्रियस्यैव दोष इत्यर्थः ॥ ३८ ॥
॥ मूलम् । – एगंतरत्तो रुइरंमि सदे । अतालिसे से कुणई पओसं ॥ दुक्खस्स संपीलमुवेइ बाले । न लिप्पई तेण मुणी विरागे ॥ ३९ ॥ व्याख्या - यो मनुष्यो रुचिरे मनोज्ञे शब्दे एकांत| रक्तोऽत्यंतमासक्तो भवति, रागं कुरुते स मनुष्योऽतादृशेऽमनोज्ञे शब्दे प्रद्वेषं करोति स वाला रागद्वेषासक्तो दुःखस्य संपीडामुपैति, असातासंबंधिनीमत्यंतपीडां प्राप्नोति, तेन रागद्वेषोत्पन्न दुःखेन विरागी मुनिर्न लिप्यते, वीतरागः पुमान् सदा सुखभाक् स्यादिति भावः ॥ ३९ ॥
॥ मूलम् ॥ सद्दाणुगासाणुगए य जीवे । चराचरे हिंसइ गरूवे || चितेहिं ते परितावेइ बाले । पीले अत्तट्ट गुरू किलिट्टे ॥ ४० ॥ व्याख्या - अथ शब्दानुरक्तस्य रागद्वेषयोरेवाश्रवका रणत्वमाह - जीवः शब्दानुगाशानुगतः सन् मनोज्ञशब्दश्रवणाशायुक्तः सन्, चराचराननेकरूपान् जीवान् हिनस्ति स बालोऽज्ञानी चित्रैरनेकप्रकारैरुपायैः शस्त्रादिभिः कांश्चिज्जोवान् परितापयति,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
X
सटीकं
॥१०९२ ॥