________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
॥९८॥
उत्तरा- सिद्धिर्ज्ञानसिद्धिर्भवेत्तदा मम ज्ञानमुत्पद्येत, मम तु ज्ञानं नोत्पन्नं तदा वृथाहं मैथुनमत्यजं, वृथैव
सटीक चेंद्रियजयमकरवं, पुनरित्थमपि न चिंतयेत.तपोभद्रमहाभद्रसर्वतोभद्रायुपधानं सिद्धांतपठनोपचाररूपं, एकभुक्तनिर्विकृत्याचाम्लोपवासादिकमादायांगीकृत्य पुनः प्रतिमां भिक्षोरभिग्रहविशेषक्रियां द्वादशविधां प्रतिपद्यमानस्य ममैवं विहरतः साधुमार्गे विहारं कुर्वतोऽपि छद्मस्थज्ञानावरणादिकर्म न निवर्तते,
अहं तपः करोम्युपधानं वहामि प्रतिमां च धरामि साधुमार्गे विहरामि तथापि केवली न भवामीति 18न विचारणीयं, अयमज्ञानपरीषहः. अत्राज्ञानपरीषहे कथा2 गंगातीरे द्वौ भ्रातरौ वैराग्यादीक्षां गृहोतवंती, तत्रैको विद्वान् जातः, द्वितीयस्तु मूर्खः, यो विद्वान्
सोऽनेकशिष्याध्यापनादिना खिन्न एवं चिंतयत्यहो धन्योऽयं मे भ्राता यः सुखेन तिष्टति, निद्रादिककमवसरे कुर्वन्नस्ति, अहं तु शिष्याध्यापनादिकष्टे पतितोऽस्मीति चिंतयन् काव्यमिदं चकार-मूर्खत्वं हि सखे ममापि रुचितं यस्मिन यदष्टौ गुणा । निश्चितो बहुभोजनोऽत्रपमना नक्तं दिवा शायकः
10॥९८॥ ॥कार्याकार्यविचारणांधबधिरो मानापमाने समः। प्रायेणामयवर्जितो दृढवपुर्खः सुखं जीवति ॥१॥
D006, standee Code
000000000000000000000
For Private And Personal Use Only